1.
1
मनुं एकाग्रं आसीनं अभिगम्य महर्षयः । प्रतिपूज्य यथान्यायं इदं वचनं अब्रुवन् । । १.१ । ।
- The great sages approached Manu, who was seated with a collected mind, and, having duly worshipped him, spoke as follows: (Ⅲ)
|
|
|
|
1.
2
भगवन्सर्ववर्णानां यथावदनुपूर्वशः । अन्तरप्रभवानां च धर्मान्नो वक्तुं अर्हसि । । १.२ । ।
- 'Deign, divine one, to declare to us precisely and in due order the sacred laws of each of the (four chief) castes (varna) and of the intermediate ones. (Ⅲ)
|
|
|
|
1.
3
त्वं एको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः । अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित्प्रभो । । १.३ । ।
- 'For thou, O Lord, alone knowest the purport, (i.e.) the rites, and the knowledge of the soul, (taught) in this whole ordinance of the Self-existent (Svayambhu), which is unknowable and unfathomable.' (Ⅲ)
|
|
|
|
1.
4
स तैः पृष्टस्तथा सम्यगमितौजा महात्मभिः । प्रत्युवाचार्च्य तान्सर्वान्महर्षीञ् श्रूयतां इति । । १.४ । ।
- He, whose power is measureless, being thus asked by the high-minded great sages, duly honoured them, and answered, 'Listen!' (Ⅲ)
|
|
|
|
1.
5
आसीदिदं तमोभूतं अप्रज्ञातं अलक्षणम् । अप्रतर्क्यं अविज्ञेयं प्रसुप्तं इव सर्वतः । । १.५ । ।
- This (universe) existed in the shape of Darkness, unperceived, destitute of distinctive marks, unattainable by reasoning, unknowable, wholly immersed, as it were, in deep sleep. (Ⅲ)
|
|
|
|
1.
6
ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादि वृत्तौजाः प्रादुरासीत्तमोनुदः । । १.६ । ।
- Then the divine Self-existent (Svayambhu, himself) indiscernible, (but) making (all) this, the great elements and the rest, discernible, appeared with irresistible (creative) power, dispelling the darkness. (Ⅲ)
|
|
|
|
1.
7
योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः । सर्वभूतमयोऽचिन्त्यः स एव स्वयं उद्बभौ । । १.७ । ।
- He who can be perceived by the internal organ (alone), who is subtile, indiscernible, and eternal, who contains all created beings and is inconceivable, shone forth of his own (will). (Ⅲ)
|
|
|
|
1.
8
सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यं अवासृजत् । । १.८ । ।
- He, desiring to produce beings of many kinds from his own body, first with a thought created the waters, and placed his seed in them. (Ⅲ)
|
|
|
|
1.
9
तदण्डं अभवद्धैमं सहस्रांशुसमप्रभम् । तस्मिञ् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः । । १.९ । ।
- That (seed) became a golden egg, in brilliancy equal to the sun; in that (egg) he himself was born as Brahman, the progenitor of the whole world. (Ⅲ)
|
|
|
|
1.
10
आपो नरा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः । । १.१० । ।
- The waters are called narah, (for) the waters are, indeed, the offspring of Nara; as they were his first residence (ayana), he thence is named Narayana. (Ⅲ)
|
|
|
|
1.
11
यत्तत्कारणं अव्यक्तं नित्यं सदसदात्मकम् । तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते । । १.११ । ।
- From that (first) cause, which is indiscernible, eternal, and both real and unreal, was produced that male (Purusha), who is famed in this world (under the appellation of) Brahman. (Ⅲ)
|
|
|
|
1.
12
तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् । स्वयं एवात्मनो ध्यानात्तदण्डं अकरोद्द्विधा । । १.१२ । ।
- The divine one resided in that egg during a whole year, then he himself by his thought (alone) divided it into two halves; (Ⅲ)
|
|
|
|
1.
13
ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे । मध्ये व्योम दिशश्चाष्टावपां स्थानं च शाश्वतम् । । १.१३ । ।
- And out of those two halves he formed heaven and earth, between them the middle sphere, the eight points of the horizon, and the eternal abode of the waters. (Ⅲ)
|
|
|
|
1.
14
उद्बबर्हात्मनश्चैव मनः सदसदात्मकम् । मनसश्चाप्यहंकारं अभिमन्तारं ईश्वरम् । । १.१४ । ।
- From himself (atmanah) he also drew forth the mind, which is both real and unreal, likewise from the mind egoism, which possesses the function of self-consciousness (and is) lordly; (Ⅲ)
|
|
|
|
1.
15
महान्तं एव चात्मानं सर्वाणि त्रिगुणानि च । विषयाणां ग्रहीतॄणि शनैः पञ्चेन्द्रियाणि च । । १.१५ । ।
- Moreover, the great one, the soul, and all (products) affected by the three qualities, and, in their order, the five organs which perceive the objects of sensation. (Ⅲ)
|
|
|
|
1.
16
तेषां त्ववयवान्सूक्ष्मान्षण्णां अप्यमितौजसाम् । संनिवेश्यात्ममात्रासु सर्वभूतानि निर्ममे । । १.१६ । ।
- But, joining minute particles even of those six, which possess measureless power, with particles of himself, he created all beings. (Ⅲ)
|
|
|
|
1.
17
यन्मूर्त्यवयवाः सूक्ष्मास्तानीमान्याश्रयन्ति षट् । तस्माच्छरीरं इत्याहुस्तस्य मूर्तिं मनीषिणः । । १.१७ । ।
- Because those six (kinds of) minute particles, which form the (creator's) frame, enter (a-sri) these (creatures), therefore the wise call his frame sarira, (the body.) (Ⅲ)
|
|
|
|
1.
18
तदाविशन्ति भूतानि महान्ति सह कर्मभिः । मनश्चावयवैः सूक्ष्मैः सर्वभूतकृदव्ययम् । । १.१८ । ।
- That the great elements enter, together with their functions and the mind, through its minute parts the framer of all beings, the imperishable one. (Ⅲ)
|
|
|
|
1.
19
तेषां इदं तु सप्तानां पुरुषाणां महौजसाम् । सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाद्व्ययम् । । १.१९ । ।
- But from minute body (-framing) particles of these seven very powerful Purushas springs this (world), the perishable from the imperishable. (Ⅲ)
|
|
|
|
1.
20
आद्याद्यस्य गुणं त्वेषां अवाप्नोति परः परः । यो यो यावतिथश्चैषां स स तावद्गुणः स्मृतः । । १.२० । ।
- Among them each succeeding (element) acquires the quality of the preceding one, and whatever place (in the sequence) each of them occupies, even so many qualities it is declared to possess. (Ⅲ)
|
|
|
|
1.
21
सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे । । १.२१ । ।
- But in the beginning he assigned their several names, actions, and conditions to all (created beings), even according to the words of the Veda. (Ⅲ)
|
|
|
|
1.
22
कर्मात्मनां च देवानां सोऽसृजत्प्राणिनां प्रभुः । साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् । । १.२२ । ।
- He, the Lord, also created the class of the gods, who are endowed with life, and whose nature is action; and the subtile class of the Sadhyas, and the eternal sacrifice. (Ⅲ)
|
|
|
|
1.
23
अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् । दुदोह यज्ञसिद्ध्यर्थं ऋग्यजुःसामलक्षणम् । । १.२३ । ।
- But from fire, wind, and the sun he drew forth the threefold eternal Veda, called Rik, Yagus, and Saman, for the due performance of the sacrifice. (Ⅲ)
|
|
|
|
1.
24
कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा । सरितः सागराञ् शैलान्समानि विषमानि च । । १.२४ । ।
- Time and the divisions of time, the lunar mansions and the planets, the rivers, the oceans, the mountains, plains, and uneven ground. (Ⅲ)
|
|
|
|
1.
25
तपो वाचं रतिं चैव कामं च क्रोधं एव च । सृष्टिं ससर्ज चैवेमां स्रष्टुं इच्छन्निमाः प्रजाः । । १.२५ । ।
- Austerity, speech, pleasure, desire, and anger, this whole creation he likewise produced, as he desired to call these beings into existence. (Ⅲ)
|
|
|
|
1.
26
कर्मणां च विवेकार्थं धर्माधर्मौ व्यवेचयत् । द्वन्द्वैरयोजयच्चेमाः सुखदुःखादिभिः प्रजाः । । १.२६ । ।
- Moreover, in order to distinguish actions, he separated merit from demerit, and he caused the creatures to be affected by the pairs (of opposites), such as pain and pleasure. (Ⅲ)
|
|
|
|
1.
27
अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः । ताभिः सार्धं इदं सर्वं संभवत्यनुपूर्वशः । । १.२७ । ।
- But with the minute perishable particles of the five (elements) which have been mentioned, this whole (world) is framed in due order. (Ⅲ)
|
|
|
|
1.
28
यं तु कर्मणि यस्मिन्स न्ययुङ्क्त प्रथमं प्रभुः । स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः । । १.२८ । ।
- But to whatever course of action the Lord at first appointed each (kind of beings), that alone it has spontaneously adopted in each succeeding creation. (Ⅲ)
|
|
|
|
1.
29
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते । यद्यस्य सोऽदधात्सर्गे तत्तस्य स्वयं आविशत् । । १.२९ । ।
- Whatever he assigned to each at the (first) creation, noxiousness or harmlessness, gentleness or ferocity, virtue or sin, truth or falsehood, that clung (afterwards) spontaneously to it. (Ⅲ)
|
|
|
|
1.
30
यथा र्तुलिङ्गान्यृतवः स्वयं एव र्तुपर्यये । स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः । । १.३० । ।
- As at the change of the seasons each season of its own accord assumes its distinctive marks, even so corporeal beings (resume in new births) their (appointed) course of action. (Ⅲ)
|
|
|
|
1.
31
लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः । ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् । । १.३१ । ।
- But for the sake of the prosperity of the worlds he caused the Brahmana, the Kshatriya, the Vaisya, and the Sudra to proceed from his mouth, his arms, his thighs, and his feet. (Ⅲ)
|
|
|
|
1.
32
द्विधा कृत्वात्मनो देहं अर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां स विराजं असृजत्प्रभुः । । १.३२ । ।
- Dividing his own body, the Lord became half male and half female; with that (female) he produced Virag. (Ⅲ)
|
|
|
|
1.
33
तपस्तप्त्वासृजद्यं तु स स्वयं पुरुषो विराट् । तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः । । १.३३ । ।
- But know me, O most holy among the twice-born, to be the creator of this whole (world), whom that male, Virag, himself produced, having performed austerities. (Ⅲ)
|
|
|
|
1.
34
अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम् । पतीन्प्रजानां असृजं महर्षीनादितो दश । । १.३४ । ।
- Then I, desiring to produce created beings, performed very difficult austerities, and (thereby) called into existence ten great sages, lords of created beings, (Ⅲ)
|
|
|
|
1.
35
मरीचिं अत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वसिष्ठं च भृगुं नारदं एव च । । १.३५ । ।
- Mariki, Atri, Angiras, Pulastya, Pulaha, Kratu, Praketas, Vasishtha, Bhrigu, and Narada. (Ⅲ)
|
|
|
|
1.
36
एते मनूंस्तु सप्तान्यानसृजन्भूरितेजसः । देवान्देवनिकायांश्च महर्षींश्चामितौजसः । । १.३६ । ।
- They created seven other Manus possessing great brilliancy, gods and classes of gods and great sages of measureless power, (Ⅲ)
|
|
|
|
1.
37
यक्षरक्षःपिशाचांश्च गन्धर्वाप्सरसोऽसुरान् । नागान्सर्पान्सुपर्णांश्च पितॄणांश्च पृथग्गणम् । । १.३७ । ।
- Yakshas (the servants of Kubera, the demons called) Rakshasas and Pisakas, Gandharvas (or musicians of the gods), Apsarases (the dancers of the gods), Asuras, (the snake-deities called) Nagas and Sarpas, (the bird-deities called) Suparnas and the several classes of the manes, (Ⅲ)
|
|
|
|
1.
38
विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च । उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च । । १.३८ । ।
- Lightnings, thunderbolts and clouds, imperfect (rohita) and perfect rainbows, falling meteors, supernatural noises, comets, and heavenly lights of many kinds, (Ⅲ)
|
|
|
|
1.
39
किन्नरान्वानरान्मत्स्यान्विविधांश्च विहङ्गमान् । पशून्मृगान्मनुष्यांश्च व्यालांश्चोभयतोदतः । । १.३९ । ।
- (Horse-faced) Kinnaras, monkeys, fishes, birds of many kinds, cattle, deer, men, and carnivorous beasts with two rows of teeth, (Ⅲ)
|
|
|
|
1.
40
कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम् । सर्वं च दंशमशकं स्थावरं च पृथग्विधम् । । १.४० । ।
- Small and large worms and beetles, moths, lice, flies, bugs, all stinging and biting insects and the several kinds of immovable things. (Ⅲ)
|
|
|
|
1.
41
एवं एतैरिदं सर्वं मन्नियोगान्महात्मभिः । यथाकर्म तपोयोगात्सृष्टं स्थावरजङ्गमम् । । १.४१ । ।
- Thus was this whole (creation), both the immovable and the movable, produced by those high-minded ones by means of austerities and at my command, (each being) according to (the results of) its actions. (Ⅲ)
|
|
|
|
1.
42
येषां तु यादृषं कर्म भूतानां इह कीर्तितम् । तत्तथा वोऽभिधास्यामि क्रमयोगं च जन्मनि । । १.४२ । ।
- But whatever act is stated (to belong) to (each of) those creatures here below, that I will truly declare to you, as well as their order in respect to birth. (Ⅲ)
|
|
|
|
1.
43
पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः । रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः । । १.४३ । ।
- Cattle, deer, carnivorous beasts with two rows of teeth, Rakshasas, Pisakas, and men are born from the womb. (Ⅲ)
|
|
|
|
1.
44
अण्डाजाः पक्षिणः सर्पा नक्रा मत्स्याश्च कच्छपाः । यानि चैवंः प्रकाराणि स्थलजान्यौदकानि च । । १.४४ । ।
- From eggs are born birds, snakes, crocodiles, fishes, tortoises, as well as similar terrestrial and aquatic (animals). (Ⅲ)
|
|
|
|
1.
45
स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् । ऊष्मणश्चोपजायन्ते यच्चान्यत्किं चिदीदृषम् । । १.४५ । ।
- From hot moisture spring stinging and biting insects, lice, flies, bugs, and all other (creatures) of that kind which are produced by heat. (Ⅲ)
|
|
|
|
1.
46
उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः । ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः । । १.४६ । ।
- All plants, propagated by seed or by slips, grow from shoots; annual plants (are those) which, bearing many flowers and fruits, perish after the ripening of their fruit; (Ⅲ)
|
|
|
|
1.
47
अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः । पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः । । १.४७ । ।
- (Those trees) which bear fruit without flowers are called vanaspati (lords of the forest); but those which bear both flowers and fruit are called vriksha. (Ⅲ)
|
|
|
|
1.
48
गुच्छगुल्मं तु विविधं तथैव तृणजातयः । बीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च । । १.४८ । ।
- But the various plants with many stalks, growing from one or several roots, the different kinds of grasses, the climbing plants and the creepers spring all from seed or from slips. (Ⅲ)
|
|
|
|
1.
49
तमसा बहुरूपेण वेष्टिताः कर्महेतुना । अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः । । १.४९ । ।
- These (plants) which are surrounded by multiform Darkness, the result of their acts (in former existences), possess internal consciousness and experience pleasure and pain. (Ⅲ)
|
|
|
|
1.
50
एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः । घोरेऽस्मिन्भूतसंसारे नित्यं सततयायिनि । । १.५० । ।
- The (various) conditions in this always terrible and constantly changing circle of births and deaths to which created beings are subject, are stated to begin with (that of) Brahman, and to end with (that of) these (just mentioned immovable creatures). (Ⅲ)
|
|
|
|